[{"data":1,"prerenderedAt":337},["ShallowReactive",2],{"sloka-hi-ganesh-ganapati-atharvashirsha":3},{"id":4,"title":5,"body":6,"date":303,"description":304,"excerpt":305,"extension":319,"lang":320,"lord":321,"lord_id":322,"meta":323,"navigation":324,"path":325,"seo":326,"sloka_id":327,"stem":328,"tags":329,"__hash__":336},"slokas\u002Fslokas\u002Fhi\u002Fganesh\u002Fganapati-atharvashirsha.md","गणपति अथर्वशीर्षम्",{"type":7,"value":8,"toc":299},"minimark",[9,13,30,32,53,55,58,60,75,77,92,94,112,114,138,140,167,169,175,177,198,200,212,214,238,240,249,251,263,265,277,279,294,296],[10,11,5],"h1",{"id":12},"गणपति-अथर्वशीर्षम्",[14,15,16,17,20,21,23,24,26,27,29],"p",{},"ॐ भद्रं कर्णेभिः शृणुयाम देवाः",[18,19],"br",{},"\nभद्रं पश्येमाक्षभिर्यजत्राः",[18,22],{},"\nस्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः",[18,25],{},"\nव्यशेम देवहितं यदायुः ॥",[18,28],{},"\nॐ शान्तिः शान्तिः शान्तिः ॥",[18,31],{},[14,33,34,35,37,38,40,41,43,44,46,47,49,50,52],{},"ॐ नमस्ते गणपतये ।",[18,36],{},"\nत्वमेव प्रत्यक्षं तत्त्वमसि ।",[18,39],{},"\nत्वमेव केवलं कर्ताऽसि ।",[18,42],{},"\nत्वमेव केवलं धर्ताऽसि ।",[18,45],{},"\nत्वमेव केवलं हर्ताऽसि ।",[18,48],{},"\nत्वमेव सर्वं खल्विदं ब्रह्मासि ।",[18,51],{},"\nत्वं साक्षादात्माऽसि नित्यम् ॥ 1 ॥",[18,54],{},[14,56,57],{},"ऋतं वच्मि । सत्यं वच्मि ॥ 2 ॥",[18,59],{},[14,61,62,63,65,66,68,69,71,72,74],{},"अव त्वं माम् । अव वक्तारम् । अव श्रोतारम् ।",[18,64],{},"\nअव दातारम् । अव धातारम् । अवानूचानमव शिष्यम् ।",[18,67],{},"\nअव पश्चात्तात् । अव पुरस्तात् । अवोत्तरात्तात् ।",[18,70],{},"\nअव दक्षिणात्तात् । अव चोर्ध्वात्तात् । अवाधरात्तात् ।",[18,73],{},"\nसर्वतो मां पाहि पाहि समन्तात् ॥ 3 ॥",[18,76],{},[14,78,79,80,82,83,85,86,88,89,91],{},"त्वं वाङ्मयस्त्वं चिन्मयः ।",[18,81],{},"\nत्वमानन्दमयस्त्वं ब्रह्ममयः ।",[18,84],{},"\nत्वं सच्चिदानन्दाद्वितीयोऽसि ।",[18,87],{},"\nत्वं प्रत्यक्षं ब्रह्मासि ।",[18,90],{},"\nत्वं ज्ञानमयो विज्ञानमयोऽसि ॥ 4 ॥",[18,93],{},[14,95,96,97,99,100,102,103,105,106,108,109,111],{},"सर्वं जगदिदं त्वत्तो जायते ।",[18,98],{},"\nसर्वं जगदिदं त्वत्तस्तिष्ठति ।",[18,101],{},"\nसर्वं जगदिदं त्वयि लयमेष्यति ।",[18,104],{},"\nसर्वं जगदिदं त्वयि प्रत्येति ।",[18,107],{},"\nत्वं भूमिरापोऽनलोऽनिलो नभः ।",[18,110],{},"\nत्वं चत्वारि वाक्पदानि ॥ 5 ॥",[18,113],{},[14,115,116,117,119,120,122,123,125,126,128,129,131,132,134,135,137],{},"त्वं गुणत्रयातीतः । त्वं अवस्थात्रयातीतः ।",[18,118],{},"\nत्वं देहत्रयातीतः । त्वं कालत्रयातीतः ।",[18,121],{},"\nत्वं मूलाधारस्थितोऽसि नित्यम् ।",[18,124],{},"\nत्वं शक्तित्रयात्मकः ।",[18,127],{},"\nत्वां योगिनो ध्यायन्ति नित्यम् ।",[18,130],{},"\nत्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वं इन्द्रस्त्वं",[18,133],{},"\nअग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं",[18,136],{},"\nब्रह्म भूर्भुवःस्वरोम् ॥ 6 ॥",[18,139],{},[14,141,142,143,145,146,148,149,151,152,154,155,157,158,160,161,163,164,166],{},"गणादिं पूर्वमुच्चार्य वर्णादिं तदनन्तरम् ।",[18,144],{},"\nअनुस्वारः परतरः । अर्धेन्दुलसितम् ।",[18,147],{},"\nतारेण ऋद्धम् । एतत्तव मनुस्वरूपम् ।",[18,150],{},"\nगकारः पूर्वरूपम् । अकारो मध्यमरूपम् ।",[18,153],{},"\nअनुस्वारश्चान्त्यरूपम् । बिन्दुरुत्तररूपम् ।",[18,156],{},"\nनादः सन्धानम् । संहिता सन्धिः ।",[18,159],{},"\nसैषा गणेशविद्या । गणक ऋषिः ।",[18,162],{},"\nनिचृद्गायत्रीच्छन्दः । गणपतिर्देवता ।",[18,165],{},"\nॐ गं गणपतये नमः ॥ 7 ॥",[18,168],{},[14,170,171,172,174],{},"एकदन्ताय विद्महे वक्रतुण्डाय धीमहि ।",[18,173],{},"\nतन्नो दन्तिः प्रचोदयात् ॥ 8 ॥",[18,176],{},[14,178,179,180,182,183,185,186,188,189,191,192,194,195,197],{},"एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम् ।",[18,181],{},"\nरदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ।",[18,184],{},"\nरक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम् ।",[18,187],{},"\nरक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितम् ।",[18,190],{},"\nभक्तानुकम्पिनं देवं जगत्कारणमच्युतम् ।",[18,193],{},"\nआविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ।",[18,196],{},"\nएवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥ 9 ॥",[18,199],{},[14,201,202,203,205,206,208,209,211],{},"नमो व्रातपतये । नमो गणपतये ।",[18,204],{},"\nनमः प्रमथपतये ।",[18,207],{},"\nनमस्तेऽस्तु लम्बोदरायैकदन्ताय",[18,210],{},"\nविघ्ननाशिने शिवसुताय श्रीवरदमूर्तये नमः ॥ 10 ॥",[18,213],{},[14,215,216,217,219,220,222,223,225,226,228,229,231,232,234,235,237],{},"एतदथर्वशीर्षं योऽधीते । स ब्रह्मभूयाय कल्पते ।",[18,218],{},"\nस सर्वविघ्नैर्न बाध्यते । स सर्वतः सुखमेधते ।",[18,221],{},"\nस पञ्चमहापापात्प्रमुच्यते ।",[18,224],{},"\nसायमधीयानो दिवसकृतं पापं नाशयति ।",[18,227],{},"\nप्रातरधीयानो रात्रिकृतं पापं नाशयति ।",[18,230],{},"\nसायं प्रातः प्रयुञ्जानो अपापो भवति ।",[18,233],{},"\nसर्वत्राधीयानोऽपविघ्नो भवति ।",[18,236],{},"\nधर्मार्थकाममोक्षं च विन्दति ॥ 11 ॥",[18,239],{},[14,241,242,243,245,246,248],{},"इदमथर्वशीर्षमशिष्याय न देयम् ।",[18,244],{},"\nयो यदि मोहाद्दास्यति स पापीयान् भवति ।",[18,247],{},"\nसहस्रावर्तनात् यं यं काममधीते तं तमनेन साधयेत् ॥ 12 ॥",[18,250],{},[14,252,253,254,256,257,259,260,262],{},"अनेन गणपतिमभिषिञ्चति स वाग्मी भवति ।",[18,255],{},"\nचतुर्थ्यामनश्नन् जपति स विद्यावान् भवति ।",[18,258],{},"\nइत्यथर्वणवाक्यम् ।",[18,261],{},"\nब्रह्माद्यावरणं विद्यात् न बिभेति कदाचनेति ॥ 13 ॥",[18,264],{},[14,266,267,268,270,271,273,274,276],{},"यो दूर्वाङ्कुरैर्यजति स वैश्रवणोपमो भवति ।",[18,269],{},"\nयो लाजैर्यजति स यशोवान् भवति । स मेधावान् भवति ।",[18,272],{},"\nयो मोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति ।",[18,275],{},"\nयः साज्यसमिद्भिर्यजति स सर्वं लभते स सर्वं लभते ॥ 14 ॥",[18,278],{},[14,280,281,282,284,285,287,288,290,291,293],{},"अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति ।",[18,283],{},"\nसूर्यग्रहे महानद्यां प्रतिमासन्निधौ वा जप्त्वा सिद्धमन्त्रो भवति ।",[18,286],{},"\nमहाविघ्नात्प्रमुच्यते । महादोषात्प्रमुच्यते ।",[18,289],{},"\nमहापापात्प्रमुच्यते । स सर्वविद्भवति स सर्वविद्भवति ।",[18,292],{},"\nय एवं वेद इत्युपनिषत् ॥ 15 ॥",[18,295],{},[14,297,298],{},"॥ इति श्रीगणपत्यथर्वशीर्षोपनिषत् समाप्ता ॥",{"title":300,"searchDepth":301,"depth":301,"links":302},"",2,[],"2026-08-31","गणपति अथर्वशीर्षम् अथर्ववेद की उपनिषद् है जो गणपति को साक्षात् ब्रह्म घोषित करती है। यह गणेश चतुर्थी तथा नित्य गणपति पूजा का प्रमुख पाठ है।",{"type":7,"value":306},[307,309],[10,308,5],{"id":12},[14,310,16,311,20,313,23,315,26,317,29],{},[18,312],{},[18,314],{},[18,316],{},[18,318],{},"md","hi","गणेश","ganesh",{},true,"\u002Fslokas\u002Fhi\u002Fganesh\u002Fganapati-atharvashirsha",{"title":5,"description":304},"ganapati-atharvashirsha","slokas\u002Fhi\u002Fganesh\u002Fganapati-atharvashirsha",[5,330,321,331,332,333,334,335],"अथर्वशीर्ष","उपनिषद्","अथर्ववेद","विनायक चतुर्थी","गणेश चतुर्थी","स्तोत्रम्","sSmw3f3eqBPQLz5vdhDOv6lHNQhLUN0PJTg0C9TxtdI",1788660485625]