फ़ॉन्ट आकार

आदित्य हृदयम्

ततो युद्ध परिश्रान्तं समरे चिन्तया स्थितम्
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥ 1 ॥


दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम्
उपागम्याब्रवीद्रामं अगस्त्यो भगवान् ऋषिः ॥ 2 ॥


राम राम महाबाहो शृणु गुह्यं सनातनम्
येन सर्वानरीन् वत्स समरे विजयिष्यसि ॥ 31 ॥


आदित्यहृदयं पुण्यं सर्वशत्रु-विनाशनम्
जयावहं जपेन्नित्यं अक्षय्यं परमं शिवम् ॥ 30 ॥


सर्वमङ्गल-माङ्गल्यं सर्वपाप-प्रणाशनम्
चिन्ताशोक-प्रशमनं आयुर्वर्धनमुत्तमम् ॥ 31 ॥


रश्मिमन्तं समुद्यन्तं देवासुर नमस्कृतम्
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ॥ 30 ॥


सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः
एष देवासुर-गणान् लोकान् पाति गभस्तिभिः ॥ 31 ॥


एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः
महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः ॥ 30 ॥


पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः
वायुर्वह्निः प्रजाप्राणः ऋतुकर्ता प्रभाकरः ॥ 31 ॥


आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान्
सुवर्णसदृशो भानुः हिरण्यरेता दिवाकरः ॥ 30 ॥


हरिदश्वः सहस्रार्चिः सप्तसप्ति-र्मरीचिमान्
तिमिरोन्मथनः शम्भुः त्वष्टा मार्ताण्डकोऽंशुमान् ॥ 31 ॥


हिरण्यगर्भः शिशिरः तपनो भास्करो रविः
अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः ॥ 30 ॥


व्योमनाथ-स्तमोभेदी ऋग्यजुःसाम-पारगः
घनावृष्टिरपां मित्रः विन्ध्यवीथी प्लवङ्गमः ॥ 31 ॥


आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः
कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः ॥ 30 ॥


नक्षत्र ग्रह ताराणां अधिपो विश्वभावनः
तेजसामपि तेजस्वी द्वादशात्म-न्नमोऽस्तु ते ॥ 31 ॥


नमः पूर्वाय गिरये पश्चिमायाद्रये नमः
ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥ 30 ॥


जयाय जयभद्राय हर्यश्वाय नमो नमः
नमो नमः सहस्रांशो आदित्याय नमो नमः ॥ 31 ॥


नम उग्राय वीराय सारङ्गाय नमो नमः
नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः ॥ 30 ॥


ब्रह्मेशानाच्युतेशाय सूर्यायादित्य-वर्चसे
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥ 31 ॥


तमोघ्नाय हिमघ्नाय शत्रुघ्नाया मितात्मने
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ॥ 30 ॥


तप्त चामीकराभाय वह्नये विश्वकर्मणे
नमस्तमोऽभि निघ्नाय रवये लोकसाक्षिणे ॥ 31 ॥


नाशयत्येष वै भूतं तदेव सृजति प्रभुः
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥ 30 ॥


एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः
एष एवाग्निहोत्रं च फलं चैवाग्नि होत्रिणाम् ॥ 31 ॥


वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च
यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ॥ 30 ॥


एन मापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च
कीर्तयन् पुरुषः कश्चिन्नावशीदति राघव ॥ 31 ॥


पूजयस्वैन मेकाग्रः देवदेवं जगत्पतिम्
एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥ 30 ॥


अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि
एवमुक्त्वा तदागस्त्यो जगाम च यथागतम् ॥ 31 ॥


एतच्छ्रुत्वा महातेजाः नष्टशोकोऽभवत्तदा
धारयामास सुप्रीतः राघवः प्रयतात्मवान् ॥ 30 ॥


आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान्
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥ 31 ॥


रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत्
सर्वयत्नेन महता वधे तस्य धृतोऽभवत् ॥ 32 ॥


अध रविरवदन्निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः
निशिचरपति संक्षयं विदित्वा सुरगण मध्यगतो वचस्त्वरेति ॥ 33 ॥